बान्धवा: अद्य व्याकरणकक्ष्याया: प्रथमं सोपानं प्रस्तूयते अत्र । व्याकरणकक्ष्या: क्रमेण नैव प्रकाशयिष्याम: । एतेषां प्रस्तुतीकरणं केवलं विषयक्रमेण करिष्यते । यथा यदि पूर्वं सन्धि: प्रस्तूयते चेत् सम्पूर्णसन्धिप्रकरणस्य प्रस्तुतीकरणानन्तरमेव अन्यविषया: उपस्थापयेम ।
अद्य व्याकरणकक्ष्याया: प्रथमसोपाने समासपरिचय: करिष्यते । समासपरिचयानन्तरं तेषां प्रयोगा: शिक्ष्यते । अनन्तरं उदाहराणि प्रकाश्यते । एतानि सर्वाणि प्रकाश्य अनन्तरं अग्रिमसोपानं प्रारम्भं करिष्ये ।
समासा: द्विधा
1- केवलसमास: ।
2- विशेषसमास: ।
केवलसमास: - तत्पुरुषादिसंज्ञाविनिर्मुक्त: समाससंज्ञामात्रयुक्त: केवलसमास: ।
अर्थात् यस्य समासस्य नास्ति नाम कश्चित् स: समास: केवलसमास: इति अभिधीयते (ज्ञायते) ।
विशेषसमास: - विशेषसमास: चतुर्धा -
1- अव्ययीभाव समास: - प्राय: पूर्वपदार्थप्रधान: अव्ययीभाव: ।
यस्मिन् पूर्वपदस्य प्राधान्यं भवति स: अव्ययीभावसमास: इति अभिधीयते । अत्र एक: इतोपि अवधेय: । अव्ययीभावे प्राय: पूर्वपदम् अव्ययमपि भवति एव । यथा उपगंगम् । अत्र पूर्वपद उप इत्यस्य प्राधान्यमेव । पुनश्च उप शब्द: अव्ययम् अपि अस्ति । अव्ययं किं नाम अव्ययं ते शब्दा: येषां रूपपरिवर्तनं कदापि न भवति । यथा उप, इति, अथ इत्यादया: ।
2- तत्पुरुष समास: - प्राय: उत्तरपदार्थप्रधान: तत्पुरुष: ।
यस्मिन् शब्दे उत्तरपदस्य प्राधान्यं भवति स: तत्पुरुष समास: । यथा कर्मकुशल: । अत्र कुशलपदस्य प्राधान्यमस्ति अत: अत्र तत्पुरुष समास: इति अस्ति ।
3- बहुब्रीहि समास: - प्राय: अन्यपदार्थप्रधान: बहुब्रीहि: ।
यस्मिन् पदे पूर्वोत्तरद्वयोरपि प्राधान्यं न भवति अपितु कस्यचित् अन्यस्य एव शब्दस्य प्राधान्यं भवति तत्र बहुब्रीहि समास: भवति । यथा पीतक्षीर: । अत्र निश्चयेन तस्मिन् विषये वार्ता चलति य: दुग्धं पीतवान् अत: द्वयोरपि दत्तशब्दयो: प्राधान्यं नास्ति अपितु अन्यस्य प्राधान्यं प्राप्यते अत: अत्र बहुब्रीहि समास: अस्ति ।
4-द्वन्द्व समास: - प्राय: उभयपदार्थप्रधान: द्वन्द्व: ।
यत्र उभयशब्दयो: प्राधान्यं भवति स: समास: द्वन्द्व: इति कथ्यते । यथा - रामकृष्णौ । अस्मिन् पदे राम: च कृष्ण: च इति बोध: भवति । अत: अत्र द्वन्द्व समास: अस्ति ।
No comments:
Post a Comment